|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.66. अध्यायः 066
Mahabharata - Sabha Parva - Chapter Topics
भीष्मेण शिशुपालवृत्तान्तकथनपूर्वकं स्वेन भीमनिषेधने स्वाभिप्रायाविष्करणम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
चेदिराजकुले जातख्यक्ष एष चतुर्भुजः।
रासभारावसदृशं ररास च ननाद च॥ 2-66-1(13881)
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ।
वैकृतं तस्यत तौ दृष्ट्वा त्यागायाकुरुतां मतिम्॥ 2-66-2(13882)
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्।
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी॥ 2-66-3(13883)
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः।
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्॥ 2-66-4(13884)
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः।
यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप॥ 2-66-5(13885)
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः।
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत्॥ 2-66-6(13886)
येनेदमीरितं वाक्यं ममैतं तनयं प्रति।
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः॥ 2-66-7(13887)
याथातथ्येन भगवान्देवो वा यदि वेतरः।
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति॥ 2-66-8(13888)
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः।
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ॥ 2-66-9(13889)
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ।
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम्॥ 2-66-10(13890)
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति।
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्॥ 2-66-11(13891)
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः।
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः॥ 2-66-12(13892)
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा।
एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम्॥ 2-66-13(13893)
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम्।
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ॥ 2-66-14(13894)
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ।
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा॥ 2-66-15(13895)
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्।
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ॥ 2-66-16(13896)
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः।
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्॥ 2-66-17(13897)
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ।
पेततुस्तच्च नयनं न्यमज्जत ललाटजम्॥ 2-66-18(13898)
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत।
ददस्व मे वरं कृष्ण भयार्ताया महाभुज॥ 2-66-19(13899)
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः।
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः॥ 2-66-20(13900)
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव।
ददामि कं वरं किं च करवाणि पितृष्वसः॥ 2-66-21(13901)
शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव।
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्॥ 2-66-22(13902)
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल।
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो॥ 2-66-23(13903)
कृष्ण उवाच। 2-66-24x(1490)
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः।
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः॥ 2-66-24(13904)
भीष्म उवाच। 2-66-25x(1491)
`स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्'।
एवमेष नृपः पापः शिशुपाः सुमन्दधीः।
त्वां समाह्वयते वीर गोविन्दवरदर्पितः॥ ॥ 2-66-25(13905)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|